वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣या꣢ धि꣣या꣡ च꣢ गव्य꣣या꣡ पु꣢꣯रुणामन्पुरुष्टुत । य꣡त्सोमे꣢꣯सोम꣣ आ꣡भु꣢वः ॥१८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अया धिया च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम आभुवः ॥१८८॥

मन्त्र उच्चारण
पद पाठ

अ꣣या꣢ । धि꣣या꣢ । च꣣ । गव्यया꣢ । पु꣡रु꣢꣯णामन् । पु꣡रु꣢꣯ । ना꣣मन् । पुरुष्टुत । पुरु । स्तुत । य꣢त् । सो꣡मे꣢꣯सोमे । सो꣡मे꣢꣯ । सो꣣मे । आ꣡भु꣢꣯वः । आ꣣ । अ꣡भु꣢꣯वः ॥१८८॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 188 | (कौथोम) 2 » 2 » 5 » 4 | (रानायाणीय) 2 » 8 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की प्राप्ति का उपाय वर्णित है।

पदार्थान्वयभाषाः -

हे (पुरुणामन्) सर्वान्तर्यामिन् एवं वेदों में शक्र, वृत्रहा, मघवान्, शचीपति आदि अनेक नामों से वर्णित, (पुरुष्टुत) बहुस्तुत इन्द्र परमात्मन् ! (अया) इस (गव्यया) आत्मा-रूप सूर्य की किरणों को पाने की कामनावाली (धिया) बुद्धि तथा ध्यान-शृङ्खला से (च) ही, यह संभव है (यत्) कि, आप (सोमेसोमे) हमारे प्राण-प्राण में, प्रत्येक श्वास में (आभुवः) व्याप्त हो जाओ ॥४॥

भावार्थभाषाः -

यदि हम तमोगुण से ढकी हुई आत्मसूर्य की किरणों को निश्चयात्मक बुद्धि और ध्यान से पुनः पाने का यत्न करें, तभी यह संभव है कि परमेश्वर हमारे प्राण-प्राण में, श्वास-श्वास में और रोम-रोम में व्याप्त हो जाए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मप्राप्त्युपायं वर्णयति।

पदार्थान्वयभाषाः -

हे (पुरुणामन्२) सर्वान्तर्यामिन्, वेदेषु शक्रवृत्रहमघवच्छचीपत्यादिबहुनामभिर्वर्णित वा ! पुरुषु बहुषु पदार्थेषु नमति व्याप्नोति यः सः यद्वा पुरूणि बहूनि नामानि यस्य सः पुरुणामा, तत्सम्बुद्धौ। (पुरुष्टुत) बहुस्तुत इन्द्र परमात्मन् ! (अया) अनया (गव्यया३) गोकामया, गावः आत्मसूर्यकिरणाः तत्प्राप्तिकामया इत्यर्थः (धिया) बुद्ध्या ध्यानशृङ्खलया वा (च) एव, एतत् संभवति (यत्) यत् त्वम् (सोमेसोमे) अस्माकं प्राणेप्राणे, प्रतिश्वासमित्यर्थः। प्राणः सोमः। श० ७।३।१।२। (आभुवः) आभवेः व्याप्नुयाः इति। आङ्पूर्वाद् भवतेर्लेटि रूपम् ॥४॥

भावार्थभाषाः -

यदि वयं तमोगुणेनावृतान् आत्मसूर्यस्य किरणान् निश्चयात्मिक्या बुद्ध्या ध्यानेन च पुनः प्राप्तुं प्रयतेमहि, तदैवैतत् संभवति यत् परमेश्वरोऽस्माकं प्राणं प्राणं, श्वासं श्वासं, रोम रोम च व्याप्नुयादिति ॥४॥

टिप्पणी: १. ऋ० ८।९३।१७, ऋषिः सुकक्षः। आभुवः इत्यत्र आभयः इति पाठः। २. पुर्विति बहुनाम, नमतिः प्रह्वीभावे। बहवः शत्रवः यं प्रति नमन्ति स पुरुनामा, तस्य सम्बोधनं पुरुनामन्, बहूनां शत्रूणां प्रह्वीकर्तः इत्यर्थः—इति वि०। पुरुरूप बहुनामेत्येव वा—इति भ०। बहुविधशक्रवृत्रहादिनामोपेत, यद्वा बहुस्तुतिमन्, नमयति स्तुत्यं देवं वशं नयतीति नाम स्तोत्रम्—इति सा०। ३. अया अनया धिया प्रज्ञया त्वां स्तुमः इति वाक्यशेषः। गव्यया गविच्छया—इति वि०। अया अनया धिया स्तुत्या त्वां स्तुमः इति शेषः। च इति पूरणः। गव्यया गोकामनया—इति भ०। अया अनया ईदृश्या गव्यया गाः आत्मनः इच्छन्त्या धिया बुद्ध्या युक्ता भवेम—इति सा०।